|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.49. अध्यायः 049
Mahabharata - Udyoga Parva - Chapter Topics
भीष्मेण दुर्योधनंप्रति कृष्णार्जुनयोः नरनारायणतादात्म्यकथनपूर्वकं तद्विरोधे कुरूणां विनाशकथनम् ॥ 1 ॥ तथा मर्मोद्धाटनपूर्वकं कर्णगर्हणम् ॥ 2 ॥ धृतराष्ट्रेण भीष्मद्रोणवचनानादरणे सर्वकुरूणां स्वजीवितनैराश्याधिगमः ॥ 3 ॥
Mahabharata - Udyoga Parva - Chapter Text
वैशम्पायन उवाच। 5-49-0x(3544)(33682)
समवेतेषु सर्वेषु तेषु राजसु भारत।
दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ॥ 5-49-1(33683)
बृहस्पतिश्चोशना च ब्रह्माणं पर्युपस्थितौ।
मरुतश्च सहेन्द्रेण वसवश्चाग्रिना सह ॥ 5-49-2(33684)
आदित्याश्चैव साध्याश्च ये च सप्तर्पयो दिवि।
विश्वावसुश्च गन्धर्वः शुभाश्चाप्सरसां गणाः ॥ 5-49-3(33685)
नमस्कृत्योपजग्मुस्ते लोकवृद्धं पितामहम् ।
परिवार्य च विश्वेशं पर्यासत दिवौकसः ॥ 5-49-4(33686)
तेषां मनश्च तेजश्चाप्याददानाविवौजसा ।
पूर्वदेवौ व्यतिक्रान्तौ नरनारायणावृषी ॥ 5-49-5(33687)
बृहस्पतिस्तु पप्रच्छ ब्रह्माणं काविमाविति।
भवन्तं नोपतिष्ठेते तौ नः शंस पितामह ॥ 5-49-6(33688)
ब्रह्मोवाच। 5-49-7x(3545)
यावेतौ पृथिवीं द्यां च भासयन्तौ तपस्विनौ।
ज्वलन्तौ रोचमानौ च व्याप्यातीतौ महाबलौ ॥ 5-49-7(33689)
नरनारायणावेतौ लोकाल्लोकं समास्थितौ ।
ऊर्जितौ स्वेन तपसा महासत्वपराक्रमौ ॥ 5-49-8(33690)
एतौ हि कर्मणा लोकं नन्दयामासतुर्ध्रुवम् ।
द्विधाभूतौ महाप्राज्ञौ विद्धि ब्रह्मन्परन्तपौ ।
असुराणां विनाशाय देवगन्धर्वपूजितौ ॥ 5-49-9(33691)
वैशम्पायन उवाच। 5-49-10x(3546)
जगाम शक्रस्तच्छ्रत्वा यत्र तौ तेपतुस्तपः ।
सार्धं देवगणैः सर्वैर्बृहस्पतिपुरोगमैः ॥ 5-49-10(33692)
तदा देवासुरे युद्धे भये जाते दिवौकसाम्।
अयाचत महात्मानौ नरनारायणौ वरम् ॥ 5-49-11(33693)
तावब्रूतां वृणीष्वेति तदा भरतसत्तम।
अथैतावब्रवीच्छकः साह्यं नः क्रियतामिति ॥ 5-49-12(33694)
ततस्तौ शक्रमब्रूतां करिष्यावो यदिच्छसि।
ताभ्यां च सहितः शक्रो विजिग्ये दैत्यदानवान् ॥ 5-49-13(33695)
नर इन्द्रस्य संग्रामे हत्वा शत्रून्परन्तपः ।
पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च ॥ 5-49-14(33696)
एष भ्रान्ते रथे तिष्ठन्भल्लेनापाहरच्छिरः।
जम्भस्य ग्रसमानस्य तदा ह्यर्जुन आहवे ॥ 5-49-15(33697)
एष पारे समुद्रस्य हिरण्यपुरमारुजत्।
हत्वा षष्टिं सहस्राणि निवातकवचान्रणे ॥ 5-49-16(33698)
एष देवान्सहेन्द्रेण जित्वा परपुरञ्जयः।
अतर्पयन्महाबाहुरर्जुनो जातवेदसम् ॥ 5-49-17(33699)
नारायणस्तथैवात्र भूयसोऽन्याञ्जघान ह।
एवमेतौ महावीर्यौ तौ पश्यत समागतौ ॥ 5-49-18(33700)
वासुदेवार्जुनौ वीरौ समवेतौ महारथौ ।
नरनारायणौ देवौ पूर्वदेवाविति श्रुतिः ॥ 5-49-19(33701)
अजेयौ मानुषे लोके सेन्द्रैरपि सुरासुरैः ।
एष नारायणः कृष्णः फाल्गुनश्च नरः स्मृतः।
नारायणो नरश्चैव सत्त्वमेकं द्विधा कृतम् ॥ 5-49-20(33702)
एतौ हि कर्मणा लोकानश्रुवातेऽक्षयान्ध्रुवान्।
तत्रतत्रैव जायेते युद्धकाले पुनःपुनः॥ 5-49-21(33703)
तस्मात्कर्मैव कर्तव्यमिति होवाच नारदः ।
एतद्धि सर्वमाचष्ट वृष्णिचक्रस्य वेदवित् ॥ 5-49-22(33704)
शङ्खचक्रगदाहस्तं यदा द्रक्ष्यसि केशवम्।
पर्याददानं चास्त्राणि भीमधन्वानमर्जुनम् ॥ 5-49-23(33705)
सनातनौ महात्मानौ कृष्णावेकरथे स्थितौ।
दुर्योधन तदा तात स्मर्तासि वचनं मम ॥ 5-49-24(33706)
नोचेदयमभावः स्यात्कुरूणां प्रत्युपस्थितः।
अर्थाच्च तात धर्माच्च तव बुद्धिरुपप्लुता ॥ 5-49-25(33707)
न चेद्ग्रहीष्यसे वाक्यं श्रोतामि सुबहून्हतान्।
तवैव हि मतं सर्वे कुरवः पर्युपासते ॥ 5-49-26(33708)
त्रयाणामेव च मतं तत्त्वमेकोऽनुमन्यसे।
रामेण चैव शप्तस्य कर्णस्य भरतर्षभ ॥ 5-49-27(33709)
दुर्जातेः सुतपुत्रस्य शकुनेः सौबलस्य च।
तथा क्षुद्रस्य पापस्य भ्रातुर्दुःशासनस्य च ॥ 5-49-28(33710)
कर्ण उवाच। 5-49-29x(3547)
नैवमायुष्मता वाच्यं यन्मामात्थ पितामह ।
क्षत्रधर्मे स्थितो ह्यस्मि स्वधर्मादनपेयिवान् ॥ 5-49-29(33711)
किञ्चान्यन्मयि दुर्वृत्तं येन मां परिगर्हसे।
न हि मे वृजिनं किञ्चिद्धार्तराष्ट्रा विदुः क्वचित् ॥ 5-49-30(33712)
नाचरं वृजिनं किञ्चिद्धार्तराष्ट्रस्य नित्यशः ।
अहं हि पाण्डवान्सर्वान्हनिष्यामि रणे स्थितान् ॥ 5-49-31(33713)
प्राग्विरुद्धैः शमं सद्भिः कथं वा क्रियते पुनः।
राज्ञो हि धृतराष्ट्रस्य सर्वं कार्यं प्रियं मया।
तथा दुर्योधनस्यापि स हि राज्ये समाहितः ॥ 5-49-32(33714)
वैशम्पायन उवाच। 5-49-33x(3548)
कर्णस्य तु वचः श्रुत्वा भीष्मः शान्तनवः पुनः।
धृतराष्ट्रं महाराजमाभाष्येदं वचोऽब्रवीत् ॥ 5-49-33(33715)
यदयं कत्थते नित्यं हन्ताहं पाण्डवानिति।
नायं कलापि संपूर्णा पाण्डवानां महात्मनाम् ॥ 5-49-34(33716)
अनयो योयमागन्ता पुत्राणां ते दुरात्मनाम् ।
तदस्य कर्म जानीहि सूतपुत्रस्य दुर्मतेः ॥ 5-49-35(33717)
एतमाश्रित्य पुत्रस्ते मन्दबुद्धिः सुयोधनः ।
अवामन्यत तान्वीरान्देवपुत्रानरिन्दमान् ॥ 5-49-36(33718)
किञ्चाप्येतेन तत्कर्म कृतपूर्वं सुदुष्करम्।
तैर्यथा पाण्डवैः सर्वैरेकैकेन कृतं पुरा॥ 5-49-37(33719)
दृष्ट्वा विराटनगरे भ्रातरं निहतं प्रियम्।
धनञ्जयेन विक्रम्य किमनेन तदा कृतम् ॥ 5-49-38(33720)
` सर्वे ह्यस्त्रिविदः शूराः सर्वे प्राप्ता महद्यशः।
अपि सर्वामरैश्वर्यं त्यजेयुर्न पुनर्जयम् ॥' 5-49-39(33721)
सहितान्हि कुरून्सर्वानभियातो धनञ्जयः।
प्रमथ्य चाच्छिनद्वासः किमयं प्रोषितस्तदा ॥ 5-49-40(33722)
गन्धर्वैर्घोषयात्रायां ह्रियते यत्सुतस्तव।
क्व तदा सूतपुत्रोऽभूद्य इदानीं वृषायते ॥ 5-49-41(33723)
ननु तत्रापि भीमेन पार्थेन च महात्मना।
यमाभ्यामेव संगम्य गन्धर्वास्ते पराजिताः ॥ 5-49-42(33724)
एतान्यस्य मृषोक्तानि बहूनि भरतर्षभ ।
विकत्थनस्य भद्रं ते सदा धर्मार्थलोपिनः ॥ 5-49-43(33725)
वैशम्पायन उवाच। 5-49-44x(3549)
भीष्मस्य तु वचः श्रुत्वा भारद्वाजो महामताः।
धृतराष्ट्रमुवाचेदं राजमध्येऽभिपूजयन्॥ 5-49-44(33726)
यदाह भरतश्रेष्ठो भीष्मस्तत्क्रियतां नृप ।
न काममवलिप्तानां वचनं कर्तुमर्हसि ॥ 5-49-45(33727)
पुरा युद्धात्साधु मन्ये पाण्डवैः सह सङ्गतम्।
यद्वाक्यमर्जुनेनोक्तं सञ्जयेन निवेदितम् ॥ 5-49-46(33728)
सर्वं तदभिजानामि करिष्यति च पाण्डवः।
न ह्यस्य त्रिषु लोकेषु सदृशोऽस्ति धनुर्धरः ॥ 5-49-47(33729)
वैशम्पायन उवाच। 5-49-48x(3550)
अनादृत्य तु तद्वाक्यमर्थवद्द्रोणभीष्मयोः।
ततः स सञ्जयं राजा पर्यपृच्छत पाण्डवान्॥ 5-49-48(33730)
तदैव कुरवः सर्वे निराशा जीवितेऽभवन् ।
भीष्मद्रोणौ यदा राजा न सम्यगनुभाषते ॥ ॥ 5-49-49(33731)
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि एकोनपञ्चाशोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-49-16 आरुजत् पीडितवान् ॥ 5-49-41 वृषायते कर्णो भवति ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|